हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Yuddha Kanda Sarga 52 – युद्धकाण्ड द्विपञ्चाशः सर्गः (५२)
॥ धूम्राक्षवधः ॥
धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम् ।
विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ॥ १ ॥
तेषां सुतुमुलं युद्धं सञ्जज्ञे हरिरक्षसाम् ।
अन्योन्यं पादपैर्घोरं निघ्नतां शूलमुद्गरैः ॥ २ ॥
घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संहतैः ।
राक्षसैर्वानरा घोरैर्विनिकृत्ताः समन्ततः ॥ ३ ॥
वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः ।
राक्षसाश्चापि सङ्क्रुद्धा वानरान्निशितैः शरैः ॥ ४ ॥
विव्यधुर्घोरसङ्काशैः कङ्कपत्रैरजिह्मगैः ।
ते गदाभिश्च भीमाभिः पट्टिशैः कूटमुद्गरैः ॥ ५ ॥
विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः ।
अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ॥ ६ ॥
शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः ।
जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ॥ ७ ॥
ते भीमवेगा हरयो नर्दमानास्ततस्ततः ।
ममन्थू राक्षसान्भीमान्नामानि च बभाषिरे ॥ ८ ॥
तद्बभूवाद्भुतं घोरं युद्धं वानररक्षसाम् ।
शिलाभिर्विविधाभिश्च बहुभिश्चैव पादपैः ॥ ९ ॥
राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः ।
ववमू रुधिरं केचिन्मुखै रुधिरभोजनाः ॥ १० ॥
पार्श्वेषु दारिताः केचित्केचिद्राशीकृता द्रुमैः ।
शिलाभिश्चूर्णिताः केचित्केचिद्दन्तैर्विदारिताः ॥ ११ ॥
ध्वजैर्विमथितैर्भग्नैः स्वरैश्च विनिपातितैः । [खरैश्च]
रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः ॥ १२ ॥
गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वनौकसाम् ।
मथितैर्वाजिभिः कीर्णं सारोहैर्वसुधातलम् ॥ १३ ॥
वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः ।
राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः ॥ १४ ॥
विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः ।
मूढाः शोणितगन्धेन निपेतुर्धरणीतले ॥ १५ ॥
अन्ये परमसङ्क्रुद्धा राक्षसा भीमनिःस्वनाः ।
तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् ॥ १६ ॥
वानरैरापतन्तस्ते वेगिता वेगवत्तरैः ।
मुष्टिभिश्चरणैर्दन्तैः पादपैश्चावपोथिताः ॥ १७ ॥
वानरैर्हन्यमानास्ते राक्षसा विप्रदुद्रुवुः ।
सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः ॥ १८ ॥
क्रोधेन कदनं चक्रे वानराणां युयुत्सताम् ।
प्रासैः प्रमथिताः केचिद्वानराः शोणितस्रवाः ॥ १९ ॥
मुद्गरैराहताः केचित्पतिता धरणीतले ।
परिघैर्मथिताः केचिद्भिन्दिपालैर्विदारिताः ॥ २० ॥
पट्टिशैराहताः केचिद्विह्वलन्तो गतासवः ।
केचिद्विनिहताः शूलै रुधिरार्द्रा वनौकसः ॥ २१ ॥
केचिद्विद्राविता नष्टाः सङ्क्रुद्धै राक्षसैर्युधि । [सबलै]
विभिन्नहृदयाः केचिदेकपार्श्वेन दारिताः ॥ २२ ॥
विदारितास्त्रिशूलैश्च केचिदान्त्रैर्विनिःसृताः ।
तत्सुभीमं महायुद्धं हरिराक्षससङ्कुलम् ॥ २३ ॥
प्रबभौ शब्दबहुलं शिलापादपसङ्कुलम् ।
धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् ॥ २४ ॥
मन्दस्तनितसङ्गीतं युद्धगान्धर्वमाबभौ ।
धूम्राक्षस्तु धनुष्पाणिर्वानरान्रणमूर्धनि ॥ २५ ॥
हसन्विद्रावयामास दिशस्तु शरवृष्टिभिः ।
धूम्राक्षेणार्दितं सैन्यं व्यथितं वीक्ष्य मारुतिः ॥ २६ ॥ [दृश्य]
अभ्यवर्तत सङ्क्रुद्धः प्रगृह्य विपुलां शिलाम् ।
क्रोधाद्द्विगुणताम्राक्षः पितृतुल्यपराक्रमः ॥ २७ ॥
शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ।
आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य सम्भ्रमात् ॥ २८ ॥
रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ।
सा प्रमथ्य रथं तस्य निपपात शिला भुवि ॥ २९ ॥
सचक्रकूबरं साश्वं सध्वजं सशरासनम् ।
स भङ्क्त्वा तु रथं तस्य हनुमान्मारुतात्मजः ॥ ३० ॥
रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः ।
विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः ॥ ३१ ॥
द्रुमैः प्रव्यथिताश्चान्ये निपेतुर्धरणीतले ।
विद्राव्य राक्षसं सैन्यं हनुमान्मारुतात्मजः ॥ ३२ ॥
गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे ।
तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् ॥ ३३ ॥
विनर्दमानः सहसा हनुमन्तमभिद्रवत् ।
ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम् ॥ ३४ ॥
पातयामास धूम्राक्षो मस्तके तु हनूमतः ।
ताडितः स तया तत्र गदया भीमरूपया ॥ ३५ ॥
स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् ।
धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत् ॥ ३६ ॥
स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः ।
पपात सहसा भूमौ विकीर्ण इव पर्वतः ॥ ३७ ॥
धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः ।
त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवङ्गमैः ॥ ३८ ॥
स तु पवनसुतो निहत्य शत्रुं
क्षतजवहाः सरितश्च सन्निकीर्य ।
रिपुवधजनितश्रमो महात्मा
मुदमगमत्कपिभिश्च पूज्यमानः ॥ ३९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.